Sunday, June 25, 2017

Sanskrit Blog: Aarye

आर्ये

आर्ये छन्दोविज्ञाः निरूपयन्ति तव लक्षणं सुभगे
एवं यत्कविवर्याः सुकरमनुसरन्ति विश्रब्धाः
मात्राश्चत्वारोऽत्र गणे तादृक्सप्त सन्ति पूर्वार्धे
अन्ते गुरुश्च विषमो न भवति जगणस्तु षष्ठो जः
अथवा सर्वलघुः प्रथमलघोः पश्चाद्यतिर्नियमितश्च
सप्तमगणो यदा सर्वलघुः यतिरेव षष्ठान्ते ॥३
अपरार्धेऽपि हि सप्तगणाः षष्ठो भवति लघुरिति नियमश्च
तुर्यान्ते हि यतिः पञ्चमे तु सकललघुकृते सति
आर्ये नियमैरेतैर्बद्धाऽपि कविवरकौशलबलात्त्वम्
कमनीया भासि सुमधुरपदैस्समुचित सरसभावैः
भासभवभूत्यमरुकालिदासगोवर्धनादिकविसृष्टैः
नाहं कविर्नविपश्चिदपि चापल्येन प्रचोदितः
त्वां शिथिलितनियमामेवं मम सौकर्यमेव समीक्ष्य
निरूपयामि क्षमस्व तव सुषमा ह्रासमविन्दत् किम्
पूर्वार्धे सप्तगणाः सन्ति चतुर्मात्राः गुरुरन्ते
उत्तरस्मिन् भवति षष्ठगणस्य स्थाने लघुरेकलः
सर्वे पञ्चविकल्पाः सर्वत्र यथामतिप्रयोज्याश्च
द्वादशमात्रान्ते यतिरवश्य उभयार्धयोरत्र
इत्थं शिथिलितनियमां त्वां रचयाम्यत्र कथय तव रूपम् ।
विदुषां भोग्यं न भवति किं मयि रुष्टा भवसि वद माम् ॥ १० ॥
----