Saturday, July 30, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-48

चन्द्रिका-४८

नवयौवनशोभिनीः स्त्रियः
मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुकाः
नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥

चपलामिव योषितां गणे
स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं
कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥

स्मरसायकलक्ष्यतां गतः
स शनैरायतलोचनोऽभ्यगात् ।
स्मयमानमुखः प्रसन्नधीः
अबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥

भयकारणमस्ति नात्र ते
ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे
तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
- - - - 

Saturday, July 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-47

चन्द्रिका-४७

विटपाश्रितरम्यबर्हिणान्
क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान्
क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥

क्वचिदुल्लसदातवीरुधः
फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः
कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥  

अवलोकयतोऽभितो मुदा
नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया
ललनापाङ्गसुजिह्मवर्त्मना ॥ १७८ ॥   
- - - - 

Saturday, July 16, 2016

Sanskrit blog: Chandrika (A Fairy tale)-46

चन्द्रिका-४६

इति मातुरुदीरितेन सा
मनसि प्राप्तशमा कथञ्चन ।
स्वविधावभजत्स्पृहामुमा
युवतीनां सुपतिः वरेप्सितम् ॥ १७४ ॥

अथ राजसुते सुभूषिते
स्ववयस्यैः सह नन्दनोपमम् ।
कुसुमोपवनं समागते
जनघोषः गगनान्तमस्पृशत् ॥ १७५ ॥
- - - - 

Saturday, July 9, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-45

चन्द्रिका-४५

यदि मां वरयेन्नृपात्मजः
मम पूर्वार्जितपुण्यसञ्चयः ।
भविता यदि नो तथापि मे
रुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥

इति मानसतर्कबोधिताः
परिणामे विगतस्पृहा मुदा ।
व्यचरन्सविलासमङ्गनाः
नरपालोपवने सुविस्मिताः ॥ १७१ ||

नरपोपवने कलामुमा
भवती पश्यति चन्द्रिकानिभां ।
किमु कामपि सुष्ठु भूषितां
विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥

क्व भवेदिह दीनसेविका
दिनकार्येषु रता गृहे भवेत् ।
त्यज मोहमियं सुमध्यमा
नरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
- - - -  

Saturday, July 2, 2016

Sanskrit blog: Chandrika (A Fairy tale) -44

चन्द्रिका-४४

यदा शनैः साचलदायतेक्षणा
नितम्बिनी मन्दगतिः नृपालयम् ।
तस्या अभिख्यामृतपानकाङ्क्षिणः
समागता राजपथस्य पार्श्वयोः ॥ १६७ ॥

तस्यां चरन्त्यां नृपपालिते वने
छायास्तरूणां सहसा तिरोहिताः ।
तस्याः रुचा सज्जनसन्निधेः खलु
प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥  
 X X X

नृपपालितपुष्पवाटिकाम्
अगमन् पौरसुताः निशामुखे ।
अमरालयरोहणे रता
इव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥
- - - -