Friday, November 25, 2016

Sanskrit blog: Chandrika-( A Fairy tale)-65

चन्द्रिका-६५

अनुपमदयितां निनीषमाणः
जनपसुतः प्रययौ सुहृत्समेतः ।
निजभवनमुखे स्थितां सुकन्यां
वदनरुचैव दिशो प्रदीपयन्तीम् ॥ २३४ ॥

अतिशयभयसिक्तवामपाणिं
स्वकरतले परिगृह्य चन्द्रिकायाः ।
स्वपितृभवनमेव लज्जितां तां  
पितृनमनाय निनाय राजपुत्रः ॥ २३५ ॥


अविरतमनुयाति तां बिडाले
अनयदुभे ललना कलामुमां च ।
नरपतिनिलयं न कैः प्रशस्या
स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६ ॥
- - - -

Saturday, November 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-64

चन्द्रिका-६४

नियमः परिपालितस्त्वयाहम्
बहु मन्ये तव गाढकर्मनिष्ठाम् ।
व्रज नायय सादरं सुभाग्यां
मम पुत्रस्य समक्षमाशु तन्वीम् ॥ २३१॥

नृपवाक्यचमत्कृतिप्रहृष्टः
प्रतिहारः पुलकावृतार्द्रगात्रः ।
समवाप्तुमुदीरितां नृपाज्ञां
प्रणतो बद्धकराञ्जलिश्चचाल ॥ २३२ ॥

 x x x

अथ नृपतनयः स्मरेण विद्धः
निजदयितागमनस्य रम्यवार्ताम् ।
स्वसहचरजनैः निशम्य हृष्टः
दिनकरतप्तमहीव वर्षपाते ॥ २३३ ॥
- - - - 

Saturday, November 12, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-63

चन्द्रिका-६३

प्रतिहार न तत्र कापि चिन्ता
नियमो मे न हि युज्यतेऽबलायाम् ।
भविता खलु सा कुमारपत्नी
अनुयान्तु प्रमदां शतं बिडालाः ॥ २२८ ॥

यदि मूकमृगेषु वृत्तिरस्या
इयती प्रेममयी भवेत्तदानीम् ।
भविता नियतं प्रसन्नदृष्टिः
करुणार्द्रा नगरप्रजास्वमुष्याः ॥ २२९ ॥

स्थिरता हृदयस्य वै प्रशस्या
ललनायाः स्वबिडालपालनार्थम् ।
नृपपुत्रकरावलम्बनाशा
स्थगिताहो कुरुते हि कापि नान्या ॥ २३० ॥
- - - -

Saturday, November 5, 2016

Sanskrit blog : Chandrika ( A Fairy tale )-62

चन्द्रिका-६२

यदि चेत् शृणु मे प्रियो बिडालः
प्रतिषिद्धोऽस्ति मया सह प्रवेष्टुम् ।
जनपः कृपया त्वया निवेद्यः
न भवेत् सौधवरे मम प्रवेशः ॥ २२५ ॥


दरविस्मयरोषरञ्जितास्यः
दृढमेतद्वचनं निशम्य तन्व्याः ।
त्वरया नृपनिश्चयोपलब्ध्यै
प्रतिहारः नृपसन्निधिं जगाम ॥ २२६ ॥

अवगम्य समाकुलेन राजा
प्रतिहारेण यथावदुक्तमर्थम् ।
स्मितपूर्वमभाषत प्रहृष्टः
घनगम्भीररवेण सान्त्वयन् तम् ॥ २२७ ॥
- - - -