Saturday, July 30, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-48

चन्द्रिका-४८

नवयौवनशोभिनीः स्त्रियः
मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुकाः
नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥

चपलामिव योषितां गणे
स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं
कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥

स्मरसायकलक्ष्यतां गतः
स शनैरायतलोचनोऽभ्यगात् ।
स्मयमानमुखः प्रसन्नधीः
अबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥

भयकारणमस्ति नात्र ते
ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे
तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
- - - - 

No comments:

Post a Comment