Saturday, August 29, 2015

Sanskrit blog: An Ode to the ScientificSpirit-37

विज्ञानसंस्कृतिः-३७

विज्ञानमुत्कृष्टसाधनं केवलम्
मनुजो विविच्य तत् जनहितं साधयेत्
उपयुज्य सादरं नो चेद्विनाशो हि
सकलजगतोऽस्माद् हि कारणात् ज्ञानेषु
मानवविवेचनज्ञानमतिरिच्यते
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३८ ॥
- - - -      

Saturday, August 22, 2015

Sanskrit blog: An Ode to the Scientific Spirit-36

विज्ञानसंस्कृतिः-३६

जलवायुभूमिप्रदूषणमनियमितम्
प्राणिनामन्तकः सद्यो भवेदिति हि
कथयन्ति विज्ञानिनो शृणुत तान् जनाः
सर्वथा प्रकृतिप्रदूषणस्तम्भनं
कार्यमित्यवगम्य तत्कर्म साधयत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३७ ॥
- - - -  

Saturday, August 15, 2015

Sanskrit blog: An Ode to the Scientific Spirit-35

विज्ञानसंस्कृतिः-३५

विज्ञानयाने तु वेगेन सञ्चलति
भूगतोर्जाव्ययात् उष्णतात्वेधते
हिमानी प्रवहति च जलसंप्लवो भवति
वर्धते सागरः सीमानमुल्लङ्घ्य
कृच्छ्रस्य वारकःविज्ञानमेवास्ति
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३६ ॥
- - - -  

Saturday, August 8, 2015

Sanskrit blog: An Ode to the Scientific Spirit-34

विज्ञानसंस्कृतिः-३४

वैद्यशास्त्रे प्रगतिरवितर्क्यसफलतां
प्राप्ता नु नूत्नसफलागदाः मानवं
स्वस्थं प्रकुर्वन्ति शल्यतन्त्रज्ञास्तु
अन्यदेहाङ्गानि लीलया युञ्जते
रोबोटयन्त्राणि शस्त्रवैद्यास्त्वहो
           तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३५ ॥ 
- - - -      

Saturday, August 1, 2015

Sanskrit blog: An Ode to The Scientific Spirit-33

विज्ञानसंस्कृतिः-३३

कृतकधीयन्त्राणि गगने पतङ्गवत्
डयने समर्थाणि शत्रुजननाशे च
चतुरङ्गखेलने वृद्धजनसेवने
गृहकार्यनिर्वहणतन्त्रे च मतिमतो
तद्यन्त्रसर्जने कारणान् संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३४ ॥
- - - -