Saturday, September 27, 2014

Sanskrit blog: Humour-106

हास्यसीकरः-१०६



परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत्,“भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि” ।

स्वामिनी सगर्वमपृच्छत्, “वृद्धिः कुतः?” ।

परिचारिका प्रत्यवदत्, “भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा” ।

स्वामिनी रुष्टा अपृच्छत्, “को वदति त्वं चतुरतरा इति?” ।

परिचारिका: “भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा”।

स्वामिनी: “मृषा खलु। को वदति इत्थम्?”

परिचारिका: “भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।“

स्वामिनी (सरोषम्) “ हञ्जे! पुनः मम भर्ता अवदत् किम्?”

परिचारिका: “नहि, नहि, भवत्याः निष्कुटपालकः अवदत्” ।

स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, “भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?”
- - - -    

Saturday, September 20, 2014

Sanskrit blog: Conversations between a couple-11

पतिपत्नीसंलापः-११



कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्ते
जानुव्यथाप्रशमके गुटिकेऽशितव्ये ।
हन्ताधुना स्वतनुपालनकार्य एव
स्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या ॥ ४४ ॥

कच्चित् प्रिय स्मरसि मामकसुप्तिमोहः
पूर्वं त्वयोपहसित:बहुशोऽधुना वै ।
निद्राऽऽगता यदि तदा शिथिलं शनैश्च
आलिङ्गति त्वमिव शान्तमनोजवह्निः॥ ४५ ॥ 

कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौ
संश्लेषचुन्बनरतौ तरुणौ इदानीम् ।
प्रेमानिलप्रशमितः मदनङ्गवह्निः
प्रेम त्वहो त्वयि विवर्धत एव नित्यम् ॥ ४६ ॥

कच्चित् प्रिय स्मरसि मां नवयौवनस्थां
मिष्टान्नभोजनसुखेष्वमिताभिलाषाम् ।
अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता
तृप्ता तवातिमधुरैःस्मितपूर्ववाग्भिः ॥ ४७ ॥

कच्चित् प्रिये स्मरसि मे लवणे स्पृहां ताम्
व्यज्ञापयः खलु हिताय न सेति पूर्वम् ।
संप्रत्यहो मदशने लवणं निषिद्धम्
लावण्यमेव तव देवि भवेदलं मे ॥ ४८ ॥

कच्चित् प्रिय स्मरसि सानुनयं त्ववादीः
संवाहयामि तव पादयुगं दिनान्ते ।
क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ
तां संविदं सफलय प्रसभं गुणाढ्य ॥ ४९ ॥

कच्चित् प्रिये स्मरसि केशवपादयुग्मम्
सर्वामयप्रशमकं शरणागतानाम् ।
संस्मृत्य यत् प्रणतधीः ममतां विहाय   
निद्रां भजस्व विमले ससुखं शयीथाः ॥ ५० ॥
- - - - 

Friday, September 12, 2014

Sanskrit blog: Humour-105

हास्यसीकरः-१०५



सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं दातुम् इच्छसि?
सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि ।
सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति?
सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् खलु ।
- - - - 

Saturday, September 6, 2014

Sanskrit blog: Conversations between a couple-10

पतिपत्नीसंलापः-१०



कच्चित्प्रिय स्मरसि पौत्रविवाहकाले
मय्यामयेन नितरां परिपीडितायाम् ।
शुश्रूषणे मम रतस्त्वमभूः नितान्तम्
आवां विना परिणयः खलु सन्निवृत्तः ॥ ४१ ॥

कच्चित् प्रिये स्मरसि मां सुदृढद्विजालि-
युक्तं कठोरचणकाशनकर्मदक्षम् ।
अद्यास्म्यहो चटकवत् रदनैर्विहीनः
कालस्य निष्ठुरगतिः न कदापि रुद्धा ॥ ४२ ॥

कच्चित् प्रिय स्मरसि मां ससुखं पचन्तीम्
विंशद्विधान् दशजनोचितभक्ष्यभोज्यान् ।
अद्यावयोः अशनपाचनकर्म एव
कृच्छ्रं प्रयासबहुलं प्रतिभाति हन्त ॥ ४३ ॥
- - - -