Saturday, August 30, 2014

Sanskrit blog: Humour-104

हास्यसीकरः-१०४
भार्या : अहं वाञ्छामि यत् अहं दिनपत्रिका भवेयम् । तदा सदैव तव अङ्कगता भवेयम् ।
भर्ता: अहमपि वाञ्छामि यत् त्वं दिनपत्रिका भवेः । तदा प्रतिदिनं नूतना भवेः । 
- - - - 

Saturday, August 23, 2014

Sanskrit blog: Conversations between a couple-9

पतिपत्नीसंलापः-९

कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नः
पौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात् ।
उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी-
त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु ॥ ३८ ॥

कच्चित्प्रिये स्मरसि मामवदः सखेदम्
दौहित्रपौत्रगणजातसुखानुबद्ध- ।
चित्तस्य मे स्वभवनानि गतेषु तेषु
तै रिक्तमालयमहो नरकं हि मन्वे ॥ ३९ ॥

कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं
लब्ध्वा पतत्रयुगलं प्रजहाति मातुः।
नीडं खगः खलु तथापि जहात्यपत्यम्
मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम् ॥ ४० ॥- - - - 

Saturday, August 9, 2014

Sanskrit blog: Humour-103

हास्यसीकरः-१०३

पतिः पत्नीं वदति, “प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्” इति ।
पत्नी वदति, “अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति ।“
पतिः, “अहं सर्वं जानामि” ।
पत्नी , “अथ कुतः मित्रम् आह्वयः?”

पतिः, “ मुग्धः सः परिणेतुं वाञ्छति” ।
- - - -