Friday, July 25, 2014

Sanskrit blog:Conversations between a couple-8

पतिपत्नीसंलापः-८

कच्चित् प्रिय स्मरसि दारपरिग्रहार्थं
पुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन्
पुत्रे त्वदुद्धृतवधूषु न जातमोहे
तत्प्रेमपात्रललनां स्व्यकरोः स्नुषात्वे ॥ ३६ ॥

कच्चित् प्रिये स्मरसि मातृधरां विहाय
पत्न्या सह स्वनवसौख्यसुधावसिक्तः ।
पुत्रो विमानगमनोत्सुकतापरीतः

त्वां मातरं किल न किञ्चिदपि न्यगादीत् ॥ ३७ ॥
- - - -  

Friday, July 11, 2014

Sanskrit blog: Humour-102

हास्यसीकरः-१०२

कार्-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, “प्रभो! त्वत्कृपया यदि कार्-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि” इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, “विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः” इति ।  
- - - - 

Friday, July 4, 2014

Sanskrit blog: Conversation between a couple-7

पतिपत्नीसंलापः-७

कच्चित्प्रिये स्मरसि नृत्यदभूतकान्तिः
पुत्रोत्सवेऽभ्युपगते सुतमात्ममूर्तिम् ।
अङ्के निवेश्य तव मानसराजहंसम्
बालानवाप्यवचनैस्समभाषथास्त्वम्॥३३ ॥

कच्चित् प्रिय स्मरसि तानि मनोहराणि
वर्षाण्यपत्ययुगलालनशिक्षणेषु
प्रत्यूहकण्टकशतैरवरुद्धमार्गे
तूर्णं क्षणार्धसमये इव यापितानि ॥ ३४ ॥

कच्चित् प्रिये स्मरसि तावकदुःखधाराम्
पुत्र्यां नवोढललनोचितदीप्तिमूर्त्याम् ।
भर्त्रा सह श्वशुरगेहमभि प्रयान्त्याम्

हर्षावगुण्ठनतिरोहितनैजरूपाम् ॥ ३५ ॥
- - - -