Friday, April 26, 2013

Sanskrit blog: Humour-71

हास्यसीकरः-७१


कुतूहली बालः मातरमपृच्छत्, अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः? इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति इति । मुग्धः बालः सपदि प्रत्यवदत्, अम्ब, इदानीमेव जानामि ’मातामह्याः सर्वे शिरोरुहाः कुतः पलिता” इति इति ।
- - - - 

Saturday, April 20, 2013

Sanskrit blog: Prisoner's dilemma

चोरविकल्पः


द्वौ पुरुषौ किञ्चित् चौर्यं कृतवन्तौ इति संशयात् कारागृहे बद्धौ एकः एकस्मिन् कक्ष्यायां, अन्यः अन्यस्मिन् कक्ष्यायां स्तः । आरक्षकाः अनवाप्तपर्याप्तसाक्ष्याः   तौ अपराधिनौ इति घोषयितुं असमर्था भवन्ति । आरक्षकाः प्रत्येकं पुरुषं मिथः सम्बोधयन्ति, रे, पश्य, यदि त्वम् अन्यपुरुषं विरुद्ध्य साक्ष्यं ददासि चेत्, त्वं मुक्तो भविष्यसि। अन्यः वर्षत्रयपर्यन्तं कारागृहवासं अनुभविष्यति इति । द्वावपि पुरुषौ अन्यं विरुद्ध्य साक्ष्यं दत्तः चेत् तयोः वर्षद्वयपर्यन्तं कारागृहवासः भवति । द्वावपि अन्यं विरुद्ध्य साक्ष्यं न दत्तः चेत्, तदा तयोः एकवर्षपर्यन्तमेव कारागृहवासः । परन्तु अन्यतरोऽपि अन्यः किं चिन्तयित्वा किं करोति इति न जानाति । अस्मिन् संदिग्धस्थितौ तौ किं कुरुतः? अन्यं विरुद्ध्य साक्ष्यं देयं वा न वा? विकल्पाः कोष्टकरूपे अत्र निदर्शिताः

द्वितीयः प्रथमं विरुध्य साक्ष्यं न ददाति
द्वितीयः प्रथमं विरुध्य साक्ष्यं ददाति
प्रथमः द्वितीयं विरुध्य साक्ष्यं न ददाति
द्वयोरपि एकवर्षम्
प्रथमस्य वर्षत्रयम्
द्वितीयः मुक्तः

प्रथमः द्वितीयं विरुध्य साक्ष्यं ददाति
प्रथमः मुक्तः
द्वितीयस्य वर्षत्रयम्
द्वयोरपि वर्षद्वयम्
इयं चोरविकल्पाख्या (prisoner’s dilemma) समस्या स्पर्धावादाख्यायां (game theory) गणितशाखायां चर्चिता ।
- - - - 

Saturday, April 13, 2013

Sanskrit blog: Humour-70

हास्यसीकरः-७०
क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे इति । स आर्यः अवदत्, अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्स्व, इति ।
अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम् इति । द्वारपालकः तमवदत्, बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्स्व इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्? । स्मयमानः द्वारपालकः अवोचत्, यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः, इति ।
- - - - 

Saturday, April 6, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
वनकुसुमपरिमलघ्रायकः कस्तत्र
वर्णरञ्जितशलभसौन्दर्यभोक्ता ।
अनपेक्ष्य संस्तुतिं प्रकृतिः प्रवृत्तास्ति
आत्मतुष्ट्यै एव मूढतिम्मो ॥ ५६६ ॥

Inspired by the following Kannada verse from “Mankuthimmana kagga” by DVG.

ಆರಣ್ಯಕದ ಪುಷ್ಪಗಳ ಮೊಸುವರಾರು
ಆರಿಹರು ಪತಗದುಡುಪನು ಹುಡುಕಿ ಮೆಚ್ಚಲ್
ಬೇರೊಬ್ಬರೆಣಿಕೆಯಿಲ್ಲದೆಯೆ ಪ್ರಕೃತಿ ತನಗೆಂದೆ
ಸ್ವಾರಸ್ಯವೆಸಗುವಳೊ ಮಂಕುತಿಮ್ಮ || ೫೬೬ ||
- - - -