Saturday, March 30, 2013

Sanskrit blog: Humour-69

हास्यसीकरः-६९
परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि । तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्? । भिक्षाम् कवलयन् परिव्राजकः अवदत्, अयि भोः! निरशनव्रतं समाचरम् इति ।
- - - - 

Saturday, March 23, 2013

Sanskrit blog: I am Fear



साहं भीतिः
अज्ञानान्मे जननमभवत् पोषिता दुर्नयेन
नैराश्यं मे दयिततनुजः सोदरः कालनाशः ।
शत्रुर्वृद्धेरलघुकरणं पीडने च प्रजानाम्
साहं भीतिः हृदयवसतिः कण्टकं लोकमार्गे ।।
नैकान् वर्णान् खलु सरटवत् धारयन्ती सलीलम् ।
आख्यातास्मीत्यवहितमतिः कुत्रचित् गाढशङ्का ।
आशाभङ्क्त्री  खलु युवजने ध्वंसिनी सुस्पृहायाः ।
लक्ष्यच्छेत्री सरलमनुजानन्वहं क्लेशयामि ॥
एकः स्वामी यमहमनिशं संस्मरन्ती प्रवेपे ।
येनाज्ञप्ता मनुजमनसः सत्वरं प्रद्रवामि ।
ख्यातो लोके कुशलमतिभिः विश्वजेता विवेकः ।
तं हे मर्त्याः व्रजत शरणं शून्यतां यामि शीघ्रम् ॥   

Inspired by the following passage:
"I am fear. I am the menace that lurks in the path of life, never visible to the eye but sharply felt in the heart. I am the father of despair, the brother of procrastination, the enemy of progress, the tool of tyranny. Born of ignorance and nursed on misguided thought, I have darkened more hopes, stifled more ambitions, shattered more ideals and prevented more accomplishments than history could ever record.

"Like the changing chameleon, I assume many disguises. I masquerade as caution. I am sometimes known as doubt or worry. But whatever I'm called, am still fear, the obstacle of achievement.

"I know no master but one. It's name is understanding. I have no power but what the human mind gives me, and I vanish completely when the light of understanding reveals the facts as they really are, for I am really nothing."
- - - - 

Saturday, March 16, 2013

Sanskrit blog: Humour-68

हास्यसीकरः-६८
ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु । इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, रे मूर्ख ! मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि      
- - - -

Saturday, March 9, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कया
कुत्रापि कोऽपि सुहृदस्तीति चिन्तयन् ।
उन्मुखो भषति खलु तद्वदेवेति किम्
भक्तिर्मनुष्यस्य मूढतिम्मो ॥ ४८४ ॥   

A rough rendering of the following verse from “mankutimmana kagga” of DVG

ಕತ್ತಲೆಯೊಳೇನನೋ ಕಂಡು ಬೆದರಿದ ನಾಯಿ
ಎತ್ತಲೋ ಸಖನೊರ್ವನಿಹನೆಂದು ನಂಬಿ |
ಕತ್ತೆತ್ತಿ ಮೋಳಿಡುತ ಬೊಗಳಿ ಹಾರಾಡುವುದು
ಭಕ್ತಿಯಂತೆಯೆ ನಮದು ಮಂಕುತಿಮ್ಮ || ೪೮೪ ||
- - - -

Saturday, March 2, 2013

Sanskrit blog: Humour-67

हास्यसीकरः-६७
चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।
एका: कच्चित् कुशली तव भर्ता?
अन्या: मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।
एका: सुभृशं खिन्नास्मि । किमभवत् ?
अन्या: एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।
एका: पश्चात् त्वं किमकरोः ?
अन्या: किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।
- - - -