Saturday, August 25, 2012

Sanskrit blog: Humour-54

हास्यसीकरः-५४
द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् ।
प्रथमः अवदत्, तव मरणं कथमभूत् ?
द्वितीयः: शैत्यसाधने (refrigerator) मृतः अभूवम्। कथमभूत् तव मरणम्?
प्रथमः : मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददानः अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे आ प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम्
द्वितीयः: हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव ।
- - - -  

Saturday, August 18, 2012

Sanskrit blog: Thus spake Timmu the dull headed


मूढतिम्मुरुवाच

बन्धनं न हि भवति जन्तुषु मिथो प्रेम ।
आंशिकस्त्वेकलो युगलं सुपूर्णम् ।
द्विगुणयति सौख्यं च दुःखे विभक्ते
बन्धुता हरिकृपा मूढतिम्मो ॥ ४२९ ॥


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಂಧನವದೇನಲ್ಲ ಜೀವಜೀವಪ್ರೇಮ
ಒಂದೆ ನಿಲೆ ಜೀವವರೆ, ಬೆರತರಳೆ ಪೂರ್ಣ|
ದಂದುಗವನರೆಗೆಯ್ದು ಸಂತಸವನಿಮ್ಮಡಿಪ
ಬಾಂಧವ್ಯ ದೈವಕೃಪೆ ಮಂಕುತಿಮ್ಮ || ೪೨೯ ||
- - - - 

Saturday, August 11, 2012

Sanskrit blog: Humour-53

हास्यसीकरः-५३
काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, भोः, किमिदं कृतं भवता? यावत् भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम् इति । वैद्यः प्रतिवदति, देवि, मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु इति ।
- - - - 

Saturday, August 4, 2012

Sanskrit blog: A wise saying

सुभाषितम्
कुतो मत्तः जुगुप्सन्ते त्वयि स्निह्यन्ति मानवाः ।
इति पृष्टं कृतान्तेन जीवनं प्रत्यभाषत ।
त्वं यतो दुःखदं सत्यं मिथ्याहं सुमनोहरम् ॥

Death asked Life
Why does everyone love you and hate me.
Life replied
Because I am a beautiful Lie and you are  painful Truth

- - - -