Sunday, April 29, 2012

Sanskrit blog: So said Timmu the dull-headed


मूढतिम्मुरुवाच
कुरु किञ्चिदपि कर्म हस्तागतं तत्र
मास्त्वहं तृणमात्र इति कृपणचिन्ता ।
भुवनदेवालये नास्ति हीनं कर्म
स्थानमत्रास्ति तव मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಏನಾನುಮಂ ಮಾಡು ಕೈಗೆ ದೊರೆತುಜ್ಜುಗವ
ನಾನೇನು ಹುಲುಕಡ್ಡಿಯೆಂಬ ನುಡಿ ಬೇಡ |
ಹೀನಮಾವುದುಮಿಲ್ಲ ಜಗದ ಗುಡಿಯೂಳಿಗದಿ
ತಾಣ ನಿನಗಿಹುದಲ್ಲಿ ಮಂಕುತಿಮ್ಮ || 790
- - - - 

Monday, April 23, 2012

Sanskrit blog: Humour-46

हास्यसीकरः-४६
मातुलः : वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः
स्वस्रीयः : आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता
मातुलः :जानामि, वत्स, अत एव ब्रवीमि, अद्यैव तव आनन्ददायकदिवसेषु महत्तमः इति ।
- - - - 

Monday, April 16, 2012

Sanskrit blog: A story of creation


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - -

Sunday, April 8, 2012

Sanskrit bog: A prayer

प्रार्थना
यन्मयाऽपरिवर्त्यं तद्यथा स्वीकरवाण्यहम् ।
देहि मे मनसः शान्तिं देहि धैर्यं यथा प्रभो ।
यन्मया परिवर्त्यं च कुर्यां तत्परिवर्तनम् ।

यथा ते त्वभिजानामि विवेकं देहि मे तथा ॥

Grant me the serenity to accept the things I cannot change,
the courage to change the things I can,
and the wisdom to know the difference.
~ Reinhold Niebuhr
- - - - 

Tuesday, April 3, 2012

Sanskrit blog: Humour-45

हास्यसीकरः-४५

सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, दशमीटर्-मितवस्त्राय कति रूप्यकाणि?. युवा स्मितवदनः अवदत्, सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, बाढम्, दशमीटर्मितं वस्त्रं देहि इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति इति । 
- - - -