Saturday, November 24, 2012

Sanskrit blog: Mahatma Gandhi and his sandal



महात्मा गान्धिः तस्य उपानच्च
महात्मा गान्धिः कदाचन रेल्-याने प्रयाति स्म । रेल्-प्रकोष्ठस्य द्वारि तिष्ठन् बहिः प्रकृतिसौन्दर्यमनुभवन् आसीत् । सपदि तस्य उपानदेका पादात् निरगलत् रेलयानात् अपततच्च । गान्धिवर्यः झटिति अन्यामुपानहं च पादात् विमोच्य बहिः प्राक्षिपत् । तस्य सहचरः तमपृच्छत्, आर्य, कुतस्त्वया अन्या उपानदपि बहिः प्रक्षिप्ता? । गान्धिवर्यः विहस्य अवदत्, एकया उपानहा मम किं कार्यम्? यदि कश्चन बहिः उपानहौ पश्यति, तस्मै ते उपयुक्ते भवेताम् इति । 
- - - - 

Saturday, November 17, 2012

Sanskrit blog: Humour-60

हास्यसीकरः-६०
विमानसंस्थया बहुवारं विमाने प्रयाणं कुर्वतां उद्योगिप्रमुखानां प्रोत्साहनार्थं नव्यः शुल्कपत्रवितरणक्रमः अनुष्ठितः । सः यथा:- उद्योगिप्रमुखस्य शुल्कपत्रेण सह तस्य पत्न्यै निःशुल्कं शुल्कपत्रं दत्तम् । उत्सुकाः उद्योगिप्रमुखाः सर्वे नूतनवितरणयोजनामनुसृत्य स्त्रीभ्यः सह प्रयाणमकुर्वन् । प्रयाणानन्तरं विमानसंस्था उद्योगिप्रमुखानां पत्नीभ्यः पत्रमेकमलिखत्, मान्ये, भवत्याः विमानयानं सुखकरमासीदिति आशंसामहे। कृपया भवत्याः प्रयाणमुद्दिश्य अस्मभ्यं किञ्चित् भवती लिखतु इति । सर्वैः पत्नीभिः उत्तराणि प्रेषितानि । सर्वेषु उत्तरपत्रेषु इदमेव लिखितं किम् प्रयाणम्?
- - - - 

Tuesday, November 13, 2012

Sanskrit blog: Festival of lights-2

दीपोत्सवः-२

आस्फोटयन् स्फोटकरान् सलीलम्
सशब्दधूमाग्निषु मोदमानाः |
पोगण्डसंघा जनयन्ति भीतिम्
वृद्धेषु बालासु तथार्भकेषु ॥ ७ ॥

कन्या रताः सुन्दररङ्गवल्ली-
-निरूपणे दैवतमन्दिरेषु ।
रथ्यासु गेहेषु चतुष्पथेषु
प्रदर्शयन्त्यः स्वकलासु कौशलम् ॥ ८ ॥


रजोप्रमृष्टाः चिरदीपपादपाः
भजन्ति नूत्नां विरजस्स्फुरत्प्रभाम् ।
गृहाग्रदेशे नवदीपशृङ्खलाः
नक्षत्रशोभाः निशि संप्रदीपिताः ॥ ९ ॥

कान्तां नवोढां रमणः प्रसादयन्
उपायनैराभरणैर्दुकूलैः ।
मिथो रतेच्छां मदनेषुविद्धः
दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १० ॥

लक्ष्मीं समस्तद्रविणप्रदात्रीम्
तस्याः कटाक्षं हृदि याचमानाः ।
भजन्ति भक्त्यापणिका विपण्याम्
श्रेयस्करी सैव सदा जनानाम् ॥ ११ ॥

नव्यं दुकूलं च विभूषणं च
भर्त्रा प्रदत्तं परिधाय साध्वी ।
स्वाद्यानि भक्ष्याणि विधातुकामा
महानसे कार्यरताऽऽप्रदोषम् ॥ १२ ॥

विद्युत्प्रदीपावलिदीप्तसौधाः
मुष्णन्ति कान्तिं खलु देवपुर्याः ।
सर्वत्र लोको मुदितः प्रहृष्टः
दीपावलीपर्वणि संप्रवृत्ते ॥ १३ ॥
- - - - 
 

Sunday, November 11, 2012

Sanskrit blog: Festival of lights-1



दीपोत्सवः
प्रावृट् प्रयाता शिशिरो न चागतः
वृक्षा हरित्पर्णमया वनान्ते ।
रोमाञ्चितोर्वी नवशाद्वलावृता
प्रतीक्षते द्राक् शरदः समागमम् ॥ १ ॥

नद्यो भृशं पङ्किलवालुकायुता
चलन्ति पद्यासु दृढं कृषीवलाः ।
श्यामप्रभाशोभितकाननानि
दीपोत्सवे संप्रति संप्रवृत्ते ॥ २ ॥

दृष्ट्वा प्रपूर्णां सरसीं जलेन
कृषीवलो नन्दति फुल्लनेत्रः ।
तटाकवीचीषु विधाय सौधान्
मनोहरान् दैवदयां प्रशंसन् ॥ ३ ॥

मन्दानिलप्रेङ्खितसस्यमञ्जरीः
संवीक्ष्य बालार्कमयूखहासे ।
मुदा मनो नृत्यति कर्षकस्य
मृत्स्नां करौ संस्पृशतो सुदीर्घम् ॥ ४ ॥

संखाद्य शादं गवि सन्निवृत्ते
श्रुत्वा स्वमातुः कलकण्ठनादम् ।
वत्सो द्रुतं कृन्तति रज्जुबन्धम्
अम्बां सहर्षं त्वरयाभ्युपैति ॥ ५॥

तं स्फीतनेत्रं प्रसभं  निरोद्धुम्
मूढा मुधा धावति यष्टिहस्ता ।
व्यर्थप्रयत्ना खलु घोषकन्या ।
स स्तन्यपाने नितरां प्रवृत्तः ॥ ६ ॥
(अनुवर्तते)
- -- -


Saturday, November 3, 2012

Sanskrit blog: Humour-59

हास्यसीकरः-५९
क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसंग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति ।
एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसंग्रहणाय भक्तवृन्दे निहितवान् ।  त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् ।
- - - -